25/08/2026
संस्कृतसप्ताहस्य संस्कृतदिवसस्य च भव्यं आयोजनम्अखनूरः, २५ अगस्त, २०२६
–देशव्यापि-संस्कृतसप्ताह-महोत्सवस्य अन्तर्गतं अद्य राजकीय-आयुर्वेदिक-चिकित्सा-महाविद्यालयस्य अखनूरस्य ‘आयुर्वेद-संहिता-सिद्धान्त-संस्कृत-विभागेन’ संस्कृतदिवस उपलक्षणे एकस्य भव्यकार्यक्रमस्य आयोजनं कृतम्। राजकीय-आयुर्वेदिक-चिकित्सा-महाविद्यालयस्य प्राचार्याणां मार्गदर्शने प्राचीनभारतीयशास्त्राणां आयुर्वेदस्य च आधारशिलाभूतस्य संस्कृतभाषायाः संवर्धनाय, संरक्षणाय, सम्मानाय च एषः कार्यक्रमः आरब्धः।कार्यक्रमस्य शुभारम्भः ज्ञान-विज्ञान-कला-देवी-सरस्वत्याः पूजनेन, दीपप्रज्वलनेन, भावपूर्ण-पुष्पाञ्जलि-अर्पणेन च अभवत्।क्रियाशारीरविभागाध्यक्षा तथा नोडल-अधिकारी डॉ. साक्षी शर्मा महोदया मुख्य-अतिथिरूपेण कार्यक्रमं सुशोभितवती। सा आधुनिकशिक्षायां समग्रविज्ञाने च संस्कृतस्य शाश्वतप्रासंगिकतायाः उपरि स्वकीयमन्तव्यं प्रकटीकृतवती।
अस्मिन् कार्यक्रमे महाविद्यालयस्य प्राध्यापकाः, स्नातकोत्तर-शोधच्छात्राः, स्नातकच्छात्राः च उपस्थिताः आसन्। रचनाशारीरविभागाध्यक्षः डॉ. बिपन चन्दर महोदयः मूल-आयुर्वेदग्रन्थेषु वर्णितानां ‘चिकित्सासूत्राणां’ महत्त्वं प्रतिपादितवान्।समग्रकार्यक्रमस्य कुशलसञ्चालनम् संहिताविभागाध्यक्षायाः प्रो. डॉ. अंकितायाः अध्यक्षते अभवत्। अस्मिन् कार्यक्रमे विभागस्य सहायिका प्राध्यापिका डॉ. अनुपमा ठाकुर महोदया, संस्कृतव्याख्यात्री श्रीमती शीतल शर्मा महोदया च सक्रियरूपेण सहयोगं कृतवत्यौ। डॉ. अंकिता महोदया कार्यक्रमस्य सफल-आयोजनाय छात्राणां संस्कृतव्याख्यात्र्याः च प्रयासानां भूरिशः प्रशंसां कृतवती। कार्यक्रमे छात्रैः सुन्दर-संस्कृतस्तोत्रपाठः, प्रश्नोत्तरी-प्रतियोगिता, भित्तिपत्र-प्रदर्शनी, विविधाः सांस्कृतिकाः प्रस्तुतयः च कृताः। कार्यक्रमस्य समापनकाले एकः महान् विचारः गुञ्जितः यत्- "संस्कृतं केवलं भाषा न अस्ति; एषा अस्माकं संस्कृतिः, अस्माकं धरोहरं, अस्माकम् अस्मिता च अस्ति।"अन्ते, देवभाषायाः सम्मानाय एकत्रितानां छात्राणां, शिक्षकाणां, प्रशासनिककर्मचारिणां च आभारं प्रकटयन्तः संहिताविभागस्य स्नातकोत्तर-शोधच्छात्रैः धन्यवाद-प्रस्तावः ज्ञापितः, येन कार्यक्रमस्य सोल्लासं समापनम् अभवत्।