II वक्रतुण्ड महाकाय सुर्यकोटि समप्रभ
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा II
Sankata Naashana Ganapati Stotram in Sanskrit
प्रणम्य शिरसा देवं गौरी पुत्रं विनायकं
भक्तावासं स्मरेन्नित्यं आयुः कामार्थ सिद्धये ॥ १॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम
तृतीयं कृष्ण पिग्ङाक्षं गजवक्त्रं चतुर्थकम ॥ २॥
लम्बोदरं पंचमं च षष्ठं विकट्मेव च
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकं ॥ ३॥
नवमं भालचन्द
्रं च दशमं तु विनायकं
एकादशं गणपतिम द्वादशं तु गजाननं ॥ ४॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः
न च विघ्नभयं तस्य सर्व सिद्धिकरम प्रभो ॥ ५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥
Alerts
Be the first to know and let us send you an email when Shri Bal Ganesh Mandir - Campal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.